Students can Download 2nd PUC Sanskrit Previous Year Question Paper March 2016, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Previous Year Question Paper March 2016

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1. अद्यापि देवाः कुत्र जन्म इच्छन्ति?
उत्तरम्
भारतभूतले।

प्रश्न 2.
परदुःखेन के अत्यन्तदुःखिनः भवन्ति?
उत्तरम्
साधवः।

प्रश्न 3.
प्रव्राजकः वणिजः गृहं किमर्थमग्छत्?
उत्तरम्
भिक्षार्थं।

KSEEB Solutions

प्रश्न 4.
शारद्वतः कः?
उत्तरम्
कण्वशिष्यः।

प्रश्न 5.
राणाप्रतापः कस्मिन् ग्रामे अजायत?
उत्तरम् कुम्बल।

प्रश्न 6.
महाश्वेता के प्रति स्ववृत्तान्तं कथयति?
उत्तरम्
पुण्डरीकं।

प्रश्न 7.
‘सा’ शान्तिः कुत्र कार्य करोति?
उत्तरम्
वस्त्रापणे।

प्रश्न 8.
परशुरामः कर्णं किमस्त्रं उपदिशति?
उत्तरम्
भार्गवास्त्रं।

प्रश्न 9.
कामधेनुगुणा का?
उत्तरम्
विद्या।

प्रश्न 10.
कृष्णशास्त्रिणां अध्यापकेषु एकस्य नाम लिखत।
उत्तरम्
बि.एम.श्री।

II. द्वित्रः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चनामेव) (5 × 2 = 10)

प्रश्न 11.
भारतवर्ष इति किमर्थं कथ्यते?

प्रश्न 12.
विस्मितः राक्षसः विक्रमादित्यं किं पृच्छति?

KSEEB Solutions

प्रश्न 13.
राजपुत्रः मञ्जूषां प्राप्य किं करोति?

प्रश्न 14.
राणाप्रतापस्य प्रतिज्ञा का?

प्रश्न 15.
पुण्डरीकस्य अनुरागं महाश्वेता कथं जानाति?

प्रश्न 16.
कर्णं प्रति परशुरामोपदेशं लिखत।

प्रश्न 17.
शान्त्यः सौन्दर्यं वर्णयत।

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवाद कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्) (3 × 3 = 9)

प्रश्न 18.
अयं तु नवमस्तेषां द्वीपस्सागरसंवृत्तः ।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ॥

प्रश्न 19.
तदेतां वीक्ष्य दुःखं मे जातो भक्तो हि मे भवान् ।
तेनैवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते ॥

प्रश्न 20.
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति धर्माशौ कथमाविर्भविष्यति ॥

प्रश्न 21.
अस्त्रप्रयोगवेलायां यदा ते सूतभावना ।
तदा सर्वाणि चास्त्राणि भवेयुनिष्फलानि. हि ॥

KSEEB Solutions

प्रश्न 22.
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारलेन यो हीनः स हीनः सर्ववस्तुषु ॥

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत । (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
अद्यप्रभृति मनुष्यभक्षणं परित्यज ।

प्रश्न 24.
भवतु, अनिर्वर्णनीयं परकलत्रम् ।

प्रश्न 25.
नैतद्धनं स्वीकर्तुं अहमिच्छामि ।

प्रश्न 26.
पुण्डरीक इति नाम चक्रे ।

प्रश्न 27.
अहो गुरुकुलवैभवम् ।

प्रश्न 28.
परीक्षार्थं इतोऽपि समयावकाशः विद्यते ।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत । (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
विक्रमादित्यस्य परोपकारगुणं वर्णयत ।

प्रश्न 30.
प्रव्राजकः ।

KSEEB Solutions

प्रश्न 31.
शार्ङ्गरवदुष्यन्तयोः संवादः ।

प्रश्न 32.
कीदृशं मुनिकुमारकं अपश्यम् इति महाश्वेता वर्णयति?

प्रश्न 33.
कर्णशापप्रसङ्गः ।

प्रश्न 34.
भामाशाहस्य राजभक्तिः ।

प्रश्न 35.
शान्तिदर्शनात् तरुणस्य चिन्तासन्ततिः ।

प्रश्न 36.
विद्यार्थिनां कृते शास्त्रिणां सन्देशः ।

VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)

प्रश्न 37.
उत्तरं यत् समुद्रस्य …………. दक्षिणं च यत् । (हिमवत्)

प्रश्न 38.
वैरिणां …………. समुद्रोपमं आसीत् । (सैन्यं)

KSEEB Solutions

प्रश्न 39.
भगवतः अशेषत्रिभुवनसुन्दरं ………. आसीत् । (रूपं)

प्रश्न 40.
अङ्गुलीयकशून्या मे …………. । (अङ्गुलिः)

(रूपं, अङ्गुलिः, सैन्यं, हिमवत्)

VII. संयोजयत। (1 × 4 = 4)

प्रश्न 41.
क – ख
(a) जाह्नवी – (i) ऋषिकुमारः
(b) पौरवः – (ii) पापम्
(c) पुण्डरीकः – (iii) गङ्गा
(d) किल्बिषम् – (iv) दुष्यन्तः
उत्तरम्
(iii) गङ्गा
(iv) दुष्यन्तः
(i) ऋषिकुमारः
(ii) पापम्

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत। (त्रयाणामेव) (3 × 1 = 3)

प्रश्न 42.
पुत्थलिका भोजराजं प्रति अब्रवीत्।
उत्तरम्
पुत्थलिका कं प्रति अब्रवीत् ?

प्रश्न 43.
अनुचराः प्रव्राजकस्य वचनं अपालयन् ।
उत्तरम्
अनुचराः कस्य वचनं अपालयन् ?

KSEEB Solutions

प्रश्न 44.
मेवाड इति स्थलं राजस्थाने प्रसिद्धमासीत् ।
उत्तरम्
मेवाड इति स्थलं कुत्र प्रसिद्धमासीत् ?

प्रश्न 45.
शान्तिः धनं न स्वीचकार ।
उत्तरम्
शान्तिः किं न स्वीचकार ?

प्रश्न 46.
अम्बया सह स्नातुं अहं अभ्यागमम् ।
उत्तरम्
कया सह स्नातुं अहं अभ्यागमम् ?

IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत /योजयत। (त्रयाणामेव)
तथेति, प्रागेव, तावच्च
ततः + ततः, अस्त्रः + अभ्यासः
उत्तरम्
तथा + इति, प्राक् + एव, तावत् + च
ततस्ततः, अस्त्राभ्यासः।

प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत । (त्रयाणामेव)
कामक्रोधौ, राजपुत्रः, योगिन् वेषम्, स्वस्य जन्मस्थानम्, कमनीयं रूपं यस्याः सा।
उत्तरम्
कामक्रोधौ – कामः च क्रोधः च
राजपुत्रः – राज्ञः पुत्रः
योगिन् वेषम् – योगिवेषम्
स्वस्य जन्मस्थानम् – स्वजन्मस्थानम्
कमनीयं रूपं यस्याः सा – कमनीयरूपा

KSEEB Solutions

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत । (द्वयोरेव)
पौरवैः, रोटिकाम्, सलिलम्, पादयोः ।
उत्तरम्
पौरवैः – पुल्लिङ्गः, तृतीया विभक्तिः , बहुवचनम्
रोटिकाम् – स्त्रीलिङ्गः, द्वितीया विभक्तिः, एकवचनम्
सलिलम् – नपुंसकलिङ्गः, प्रथमा विभक्तिः, एकवचनम्
पादयोः – पुल्लिङ्गः, सप्तमी विभक्तिः, द्विवचनम्

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत । (द्वयोरेव)
भवन्तु, आसीत्, भवेत्, वदन्ति
उत्तरम्
भवन्तु – लोट्लकारः, प्रथम पुरुषः, बहुवचनम्
आसीत् – लङ् लकारः, प्रथम पुरुषः, एकवचनम्
भवेत् – विधिलिङ्, प्रथम पुरुषः, एकवचनम्
वदन्ति – लट् लकारः, प्रथम पुरुषः, बहुवचनम्

प्रश्न 51.
पदपरिचयं कुरुत । (त्रयाणामेव)
स्नातुम्, कृत्वा, निर्गतः, स्मरन्, आदाय ।
उत्तरम्
तुमुन्नान्ताव्ययम्, क्त्वान्ताव्ययम्, क्त प्रत्ययान्तः भूतकृदन्तः, शतृ प्रत्ययान्तः वर्तमान कृदन्तः, ल्यबन्त।

प्रश्न 52.
प्रयोगं परिवर्तयत ।
राणाप्रतापः प्रतिज्ञां स्वीकृतवान् ।
उत्तरम्
राणाप्रतापेन प्रतिज्ञा स्वीकृता ।

अथवा

स्त्रिया गृहं रक्ष्यते ।
उत्तरम्
स्त्री गृहं रक्षति ।

प्रश्न 53.
विद्यारत्नेन यो हीनः स हीनः सर्ववस्तुषु ।
वा
विलासमिव सरस्वत्याः मुनिकुमारकं अपश्यम् ।

KSEEB Solutions

प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत।

पुस्तकानि सम्पर्कसाधनानि वर्तन्ते । बहून् विषयान् एकत्र संगृह्य सुचारुरूपेण निवेदयितुं पुस्तकमेव समर्थं माध्यमम् । पुस्तकामाध्यमेन शाश्वतरूपेण विचारविनिमयं कर्तुं शक्यते । यः पुस्तकानि अधिकं पठति सः अतीव बुद्धिमान् भवति। पूर्व, जनाः तालपत्रेषु भूर्जपत्रेषु च लिखन्ति स्म । मुद्रणयन्त्रस्य अन्वेषणानन्तरं पुस्तकप्रचारः अधिकः सञ्जातः।

प्रश्न 55.
संस्कृतभाषया अनुवदत।

2nd PUC Sanskrit Previous Year Question Paper March 2016 1

Karthikeya the destroyer of demon Taraka, is the younger son of Lord Shiva. Ganesha the remover of obstacles is his elder son: Kubera the lord of wealth is his friend. Parvathi the mother of universe is his wife. Parvatharaja the king of mountains is his father-in-law. Nandi is his vehicle. Veerabhadra is his chief of army. In spite of all this, Lord Shiva begs. What a destiny!

प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत । (5 × 1 = 5)
पुरा अयोध्यायां सगरो नाम राजा आसीत् । एकदा सः अश्वमेधयागं कर्तुं ऐच्छत्। तदर्थं सः यज्ञाश्वं अमुञ्चत्। इमं विषयं ज्ञात्वा, देवेन्द्रः यज्ञाश्वं अपहृतवान् । तं पातालं नीत्वा तत्र तपः कुर्वतः कपिलमुनेः समीपे स्थापितवान् । यज्ञाश्वं अन्विषन्तः सगरपुत्राः भूमिं खनन्तः पातालं अगच्छन् । तत्र यज्ञाश्वं दृष्ट्वा, कपिल एव चोर इति मत्वा, ते तं महामुनिः अवाच्यशब्दैः अनिन्दन् । तदा कुपितो मुनिः नेत्रे उन्मील्य तान् सर्वान् भस्मीकृतवान्। अतः ज्येष्ठाः वदन्ति ‘अविचार्य किमपि कर्म न करणीयम्’ इति।
प्रश्नाः
1. सगरो नाम राजा कुत्र आसीत् ?
उत्तरम्
अयोध्यायां।

2. राजा सगरः किं कर्तुं ऐच्छत्?
उत्तरम्
अश्वमेधयागं

3. सगरस्य यज्ञाश्वं कः अपहृतवान्?
उत्तरम्
देवेन्द्रः

KSEEB Solutions

4. कुपितो मुनिः किं अकरोत्?
उत्तरम्
नेत्रे उन्मील्य तान् सर्वान् भस्मीकृतवान्।

5. अतः ज्येष्ठाः किं वदन्ति?
उत्तरम्
‘अविचार्य किमपि कर्म न करणीयम्’।
अथवा
युष्माकं विद्यालयस्य वार्षिकोत्सवाथै आगन्तुं मित्राय पत्रमेकं लिखत।

Leave a Reply

Your email address will not be published. Required fields are marked *