Students can Download Sanskrit Lesson 12 कर्णभारम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.
Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 12 कर्णभारम् (प्राचीननाटकम्)
कर्णभारम् Questions and Answers, Summary, Notes
अभ्यासः
I. एकवाक्येन उत्तरं लिखत ।
प्रश्न 1.
‘राधेयः’ इति विश्रुतः कः ?
उत्तरम्
कर्णः ‘राधेयः’ इति विश्रुतः ।
प्रश्न 2.
पुरुषेण यत्नैः कः साध्यः ?
उत्तरम्
पुरुषेण यत्नैः धर्मः साध्यः ।
प्रश्न 3.
किं किं शाश्वतं तिष्ठति ?
उत्तरम्
हुतं च दत्तं च शाश्वतं तिष्ठति ।
प्रश्न 4.
कर्णस्य सारथिः कः ?
उत्तरम्
कर्णस्य सारथिः शल्यः ।
II. रिक्तस्थानं पूरयत ।
- भोः कर्ण ! महत्तरां भिक्षां याचे ।
- कालपर्ययात् शिक्षा क्षयं याति ।
- हतेषु देहेषु गुणाः धरन्ते।
- शल्यराज ! श्रूयतां ममास्त्रस्य वृत्तान्तः ।
III. संयोज्य लिखत ।
अ – आ
१. कर्णसूतः – १. कर्णस्यगुरुः
२. जामदग्न्यः – २. चञ्चलाः
३. नृपश्रियः – ३. नश्यन्तु
४. वज्रमुखः – ४. शल्यराजः
५. विपदः – ५. कृमिः
उत्तरम्
१ – ४, २ – १, ३ – २, ४ – ५, ५ – ३
IV. रेखाङ्कितपदम् अवलम्ब्य प्रश्ननिर्माणं कुरुत।
प्रश्न 1.
शक्रः महत्तरां भिक्षां याचते ।
उत्तरम्
शक्रः कां याचते ?
प्रश्न 2.
मम देहरक्षा अङ्गैः सह जनितम् ।
उत्तरम्
तव देहरक्षा कैः सह जनितम् ?
प्रश्न 3.
शल्यको रथारोहणं कुरुतः ।
उत्तरम्
कौ रथारोहणं कुरुतः ?
V. समानार्थकपदं लिखत ।
- शिरः = मस्तकम् ।
- भुजङ्गः = सर्पः
- वृत्तान्तः = समाचारः ।
- देहः – कायः ।
VI. विग्रहवाक्यं विलिख्य समासनाम लिखत ।
- मच्छिरः = मम शिरः → षष्ठी तत्पुरुषसमासः।
- यथाबलम् = बलम् अनतिक्रम्य → अव्ययीभावसमासः ।
- देवासुराः = देवाः च असुराः च → द्वन्द्व समासः ।
- दीर्घायुः = दीर्घम् आयुः यं/येन सः → बहुव्रीहिसमासः ।
VII. लघूत्तरं लिखत ।
प्रश्न 1.
जामदग्न्यः किमर्थं कर्णं शशाप?
उत्तरम्
एकदा परशुरामः वनभ्रमणपरिश्रमात् कर्णस्य अङ्के निद्रावशः अभूत् । तदा वज्रमुखः नाम क्रिमिः कर्णस्य ऊरुद्रयम् अदशत् । गुरोः निद्राभङ्गभयात् कर्णः वेदनाम् असह्यत। क्षतजाप्लुतः गुरुः उत्थाय, कर्णं क्षत्रिय इति मत्वा तं शशाप ।
प्रश्न 2.
कर्णः शक्राय किं किं ददाति? तयोः वैशिष्टयं किम् ?
उत्तरम्
कर्णः शक्राय – अझैः सह एव उत्पन्नं स्वस्य कवचं कुण्डलाभ्यां सह ददाति। कर्णस्य कुण्डलाभ्यां सह दत्तं कवचम् अस्त्रैः (सह) देवासुरैः अपि भेत्तुं न शक्यम् ।
VIII. यथानिर्देशम् उत्तरं लिखत ।
1. ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम् ।
कः पाठः ? दानशूरः इति पाठः ।
कः अवदत् ? शल्यः अवदत् ।
कस्य वृत्तान्तः ? कर्णस्य वृत्तान्तः ।
2. सागरः इव तिष्ठतु ते यशः ।
कः पाठः ? दानशूरः इति पाठः ।
कः अवदत् ? शक्रः अवदत् ।
कस्य यशः ? कर्णस्य यशः ।
3. भगवन् किमिच्छसि? किमहं ददामि।
कः पाठः ? दानशूरः इति पाठः ।
कः अवदत् ? कर्णः अवदत् ।
कम् अवदत् ? विप्ररूपधरी शक्रम् अवदत्।
IX. दशवाक्यैः उत्तरं संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा लिखत ।
प्रश्न 1.
कर्णशक्रयोः सम्भाषणं विवृणुत ।
प्रश्न 2.
कर्णः स्वस्य अस्त्रवृत्तान्तं शल्यं प्रति कथम् अवर्णयत् ।
उत्तरम्
In the great battle of Mahabharatha, after the death of Drona, Karna became the commander-in-chief of the Kaurava’s army. While proceeding to the battle field in his chariot driven by Shalya to face (fight with) Arjuna in the battle field Karna recalls to himself how his weapons and all his learning would fail him at the hour of need. Karna says that – he was born of Kunthi first and became known as Radheya later. So Pandavas are younger brothers to him.’
Karna relates to Shalya how he learnt the art of war from Parashurama by uttering a falsehood that he was not a Kshatriya, and how, later on when the reality was discovered, he was cursed by the teacher that his weapons and learning would be useless just when he needed.
As both he and Shalya drive along in the chariot, a Brahmin beg him for a mighty gift. Karna offers him thousands of cows, horses, elephants, plenty of gold, the whole earth. Brahmin says that he has nothing to do with any of them. Karna offers his body armour born with him, which cannot be pierced by either gods or demons, along with the pair of his ear-rings. Then Karna cuts off and gives him armour and ear-rings to the brahmin who goes away with them. Then Karna says to Shalya that — Please drive my chariot direct to that place where Arjuna is.’.
इतरप्रश्नाः
I. सूक्तम् उत्तरं चित्वा लिखत ।
प्रश्न 1.
एषः दानशूरः इति प्रसिद्धः ।
(a) कर्णः
(b) भीमः
(c) अर्जुनः
(d) धर्मराजः
प्रश्न 2.
कर्णः अस्य मरणानन्तरं कुरुसेनापतिः बभूव ।
(a) भीष्मस्य
(b) द्रोणस्य
(c) राज्ञः
(d) सेनापतेः
प्रश्न 3.
एषः कर्णस्य सारथिः ।
(a) शन्तनुः
(b) शालक्यः
(c) शल्यः
(d) शिबिः
प्रश्न 4.
कर्णः अस्यां समुत्पन्नः ।
(a) जनन्यां
(b) राधायां
(c) देव्यां
(d) कुन्त्यां
प्रश्न 5.
अस्य क्षत्रियवंश्यैः पूर्ववैरम् अस्ति ।
(a) परशुरामस्य
(b) रामस्य
(c) नायकस्य
(d) बलरामस्य
प्रश्न 6.
पुरुषेण यत्नैः एषः साध्यः ।
(a) अर्थः
(b) धर्मः
(c) कामः
(d) मोक्षः
प्रश्न 7.
कालपर्ययात् शिक्षा __________ गच्छति ।
(a) वृद्धिं
(b) अभिवृद्धिं :
(c) क्षीणं
(d) क्षयं
प्रश्न 8.
‘वारणः’ शब्दस्य एषः अर्थः ?
(a) गजः
(b) हयः
(c) कृमिः
(d) रथः
प्रश्न 9.
‘देवाय’ अत्र एषा विभक्तिः वर्तते ।
(a) प्रथमा
(b) तृतीया
(c) चतुर्थी
(d) पञ्चमी
प्रश्न 10.
अत्र समूहेतरपदम् इदम् अस्ति ।
(a) शल्यः
(b) कर्णः
(c) जामदग्न्यः
(d) अग्निः
II. तात्पर्यं लिखत ।
प्रश्न 1.
पूर्वं कुन्त्यां समुत्पन्नः राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ।।
उत्तरम्
I was born of Kuntidevi first and became known as Raadheya later. Therefore those Pandavas, such as Yudhisthira are younger brothers to me.
प्रश्न 2.
कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये
निद्राच्छेदभयादसह्यत गुरोः धैर्यात्तदा वेदना।
उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दी पितो
बुद्ध्वा मां च शशाप कालविफलान्य स्त्राणि ते सन्त्विति ।।
उत्तरम्
When by chance, both my thighs were bored through by an insect called ‘Vajramukha’, the pain was endured by me with fortitude for fear of disturbing the sleep of my teacher. But he, after waking up, stained with blood, straight away became blazing with fiery anger, and have found me out, he cursed saying -“Let your weapons be of no avail to you in the time of need.”
प्रश्न 3.
धर्मो हि यत्नैः पुरुषेण साध्यः
भुजङ्गजिह्वाचपला नृपश्रियः।
तस्मात्प्रजापालनमात्रबुद्ध्या
हतेषु देहेषु गुणा धरन्ते ।
उत्तरम्
Virtue is true to be attained by a man with efforts. The riches of kings are (as) unsteady as the tongues of serpents. Therefore good qualities remain forever even when the bodies get slain bearing in mind just the safety of people.
प्रश्न 4.
अङ्गैः सहैव जनितं मम देहरक्षा
देवसुरैरपि न भेद्यमिदं सहास्त्रैः ।
देयं तथापि कवचं सह कुण्डलाभ्याम्
प्रीत्या मया भगवते रचितं यदि स्यात् ।
उत्तरम्
This protector of my body, sprung along with my limbs, is not pierceable with weapons by either gods or demons. Yet, if it pleases you, that armour along with the pair of ear-rings shall be given to your reverence, most willingly by me.
प्रश्न 5.
शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति ।
हुतं च दत्तं च तथैव तिष्ठति ।।
उत्तरम्
Learning goes to decay by the lapse of time. Trees, very firmly rooted, (too) tumble down. And water settled even in reservoirs dries away. But an oblation or gift alone remains as such for all times.
प्रश्न 6.
सर्वत्र सम्पदस्सन्तु नश्यन्तु विपदस्सदा ।
राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः।।
उत्तरम्
May riches be everywhere. May misfortunes perish forever. May our king alone, endowed with kingly qualities, govern the earth.
Introduction
King of poets Jagannatha says that ‘plays are called as the beautiful form of kavya’. Poetry is classified into दृश्य and काव्य the one which can be enacted is drama. It is a form which is combined with music, literature and acting. This lesson is taken from Bhasa’s work, the charity of Karna is described in this lesson.
पीठिका
‘रमणीयार्थप्रतिपादकः शब्दः काव्यम्’ इति पण्डितराजः जगन्नाथः अवदत् । तच्च काव्यं श्रव्यं दृश्यं चेति द्विविधम्। दृश्यकाव्यं तु अभिनयैः रूप्यते इति रूपकम्। प्रस्तुते रूपके कर्णस्य दानशीलता निरूपिता वर्तते ।
कविकाव्यविचारः
- कविः – भासः ।
- देशः – दक्षिणभारतम् ।
- कालः – क्रि. पू. पञ्चमं शतकम् ।
- कृतयः – कर्णभारम्, प्रतिमानाटकम् इत्यादीनि चतुर्दशरूपकाणि ।
कर्णभारम् Summary in Kannada
कर्णभारम् Summary in English
In the great battle of Mahabharatha, after the death of Drona, Karna became the commander-in-chief of the Kaurava’s army. While proceeding to the battlefield in his chariot driven by Shalya to face (fight with) Arjuna in the battlefield Karna recalls to himself how his weapons and all his learning would fail him at the hour of need. Karna says that – he was born of Kunthi first and became known as Radheya later. So Pandavas are younger brothers to him.
Karna relates to Shalya how he learnt the art of war from Parashurama by uttering a falsehood that he was not a Kshatriya, and how, later on when the reality was discovered, he was cursed by the teacher that his weapons and learning would be useless just when he needed.
As both he and Shalya drive along in the chariot a Brahmin beg him for a mighty gift. Karna offers him thousands of cows, horses, elephants, plenty of gold, the whole earth. Brahmin says that he has nothing to do with any of them. Karna offers his body armour born with him, which cannot be pierced by either gods or demons, along ‘with the pair of his ear-rings. Then Karna cuts off and gives him armour and ear-rings to the brahmin who goes away with them. Then Karna says to Shalya that Please drive my chariot direct to that place where Arjuna is..
कर्णभारम् Summary in Sanskrit
सारांशः
महाभारतयुद्धे द्रोणस्य मरणानन्तरं कर्णः कुरुसेनापतिः बभूव । अर्जुनेन सह योद्धं कर्णशल्यौ युद्धभूमिं प्रविशतः। तदा कर्णशल्ययोः मध्ये सम्भाषणं प्रवर्तते। कर्णः रथे उपविश्य शल्यं प्रति स्वस्य जन्मवृत्तान्तं एवं कथयति – ‘अहं पूर्वं कुन्त्याः पुत्रः किन्तु अहं राधेयः इति विश्रुतः । अतः पाण्डुतनयाः मम अनुजाः’ इति। एवमेव स्वस्य अस्त्रवृत्तान्तमपि कथयति। शल्यः अपि तत् वृत्तान्तं श्रोतुम् इच्छति ।
पर्वं कर्णः विद्याम् अध्येतं जामदग्नस्य समीपं गत्वा प्रार्थयति। परशुरामः – ‘ब्राह्मणेषु उपदेशं करोमि, न क्षत्रियाणाम् इति वदति । कर्णः – ‘अहं ब्राह्मणः’ इति उक्त्वा सम्यक अध्ययनं कृत्वा ज्ञानी भवति। एकदा गुरुः वनभ्रमणपरिश्रमात कर्णस्य अङ्के निद्रावशमनुगतः । तदा वज्रमुखः नाम कृमिः कर्णस्य ऊरुद्वयं अदशत्। गुरोः निद्राभंगभयात् कर्णः वेदनाम् असह्यत ! जाग्रतः गुरुः क्रोधेन कर्णं क्षत्रियः इति मत्वा ते अस्त्राणि कालविफलानि सन्तु’ इति शशाप ।
ततः शल्यः युद्धभूमौ रथं स्थापयति। तत्र ब्राह्मणरूपधारी शक्रः कर्ण, कुण्डलाभ्यां सहितं तस्य कवचम् अयाचत। कर्णः कवचं निकृत्य अयच्छत् । तुष्टः इन्द्रः स्वस्थानम् अगच्छत्। अनन्तरं कर्णः शल्यं प्रति यत्र अर्जुनः अस्ति तत्रैव चोद्यतां मम रथः’ इति अवदत् ।